|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.103. अध्यायः 103
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति वृषभगृहशय्यादिदानप्रशंसनम्॥ 1 ॥ तथा गोब्राह्मणरक्षणादिनानाधर्मकथनम्॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
वासुदेवेन दानेषु कथितेषु यथाक्रमम्।
अवितृप्तश्च धर्मेषु केशवं पुनरब्रवीत्॥ 14-103-1(95852)
देव धर्मामृतमिदं शृण्वतोपि परंतप।
न विद्यते सुरश्रेष्ठ मम तृप्तिर्हि माधव॥ 14-103-2(95853)
अनडुत्संप्रदानस्य यत्फलं तु विधीयते।
तत्फलं कथयस्वेह तव भक्तस्य मेऽच्युत॥ 14-103-3(95854)
यानिचान्यानिदानानित्वया नोक्तानि कानिचित्॥
तान्याचक्ष्व सुरश्रेष्ठ तेषां चानुक्रमात्फलम्॥ 14-103-4(95855)
भगवानुवाच। 14-103-5x(7955)
पवित्रत्वात्सुपुण्यत्वात्पावनत्वात्तथैव च।
शृणु धर्मामृतं श्रेष्ठं दत्तस्यानडुहः फलम्॥ 14-103-5(95856)
दशधेनुसमोऽनड्वानेकोपि कुरुपुङ्गव।
मेदोमांसविपुष्टाङ्गो नीरोगः कोपवर्जितः॥ 14-103-6(95857)
युवा भद्रः सुशीलश्च सर्वदोषविवर्जितः।
धुरं धारयति क्षिप्रं दत्तो विप्राय पाण्डव॥ 14-103-7(95858)
स तेन पुण्यदानेन वर्षकोटिं युधिष्ठिर।
यथाकामं महादेजा गवां लोके महीयते॥ 14-103-8(95859)
यश्च दद्यादनडुहौ द्वौ युक्तौ च धुरंधरौ।
सुवृत्ताय दरिद्राय श्रोत्रियाय विशेषतः।
तस्य यत्पुण्यमाख्यातं तच्छृणुष्व युधिष्ठिर॥ 14-103-9(95860)
सहस्रगोप्रदानेन यत्प्रोक्तं फलमुत्तमम्॥
तत्पुण्यफलमाप्नोति याति लोकान्स मामकान्॥ 14-103-10(95861)
यावन्ति चैव रोमाणि तयोरनुडुहोर्नृप।
तावद्वर्षसहस्राणि मम लोके महीयते॥ 14-103-11(95862)
दरिद्रायैव दातव्यं न समृद्धाय पाण्डव।
वर्षाणां हि तटाकेषु फलं नैव पयोधिषु॥ 14-103-12(95863)
यस्तु दद्यादनडुहं दरिद्राय द्विजातये।
स तेन पुण्यदानेन पुतात्मा कुरुपुङ्गव॥ 14-103-13(95864)
विमानं दिव्यमारूढो दिव्यरूपी यथासुखम्।
मम लोकेषु रमते यावदाभूतसंप्लुवम्॥ 14-103-14(95865)
गृहं दीपप्रभायुक्तं शय्यासनविभूषितम्।
भाजनोपस्करैर्युक्तं धनधान्यैरलङ्कृतम्।
दासीगोभूमिसंयुक्तमन्यूनं सर्वसाधनैः॥ 14-103-15(95866)
ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर।
दद्यात्सदक्षिणं यस्तु तस्य पुण्यफलं शृणु॥ 14-103-16(95867)
देवाः पितृगणाश्चैव ह्यग्नयो ऋषयस्तथा।
प्रयच्छन्ति प्रहृष्टा वै यानमादित्यसन्निभम्॥ 14-103-17(95868)
तेन गच्छेच्छ्रिया युक्तो ब्रह्मलोकमनुत्तमम्।
स्त्रीसहस्रावृते रम्ये भवने तत्र काञ्चने।
मोदते ब्रह्मलोकस्थो यावदाभूतसप्लवम्॥ 14-103-18(95869)
शय्यं प्रस्तरणोपेतां यः प्रयच्छति पाण्डव।
अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यानुलेपनैः।
भोजयित्वा विचित्रान्नं तस्य पुण्यफलं शृणु॥ 14-103-19(95870)
धेनुदानस्य यत्पुण्यं विधिदत्तस्य पाण्डव।
तत्पुण्यं तमनुप्राप्य पितृलोके महीयते॥ 14-103-20(95871)
शिल्पमध्ययनं वाऽपि विद्यां मन्त्रौषधानि च।
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु॥ 14-103-21(95872)
आहिताग्निसहस्रस्य पूजितस्यैव यत्फलम्।
तत्पुण्यफलमाप्नोति यस्तु शय्यां प्रयच्चति॥ 14-103-22(95873)
छन्दोभिः संप्रयुक्तेन विमानेन विराजता।
सप्तर्षिलोकान्व्रजति पूज्यते ब्रह्मवादिभिः॥ 14-103-23(95874)
चतुर्युगानि वै त्रिंशत्क्रीडित्वा तत्र देववत्।
इह मानुष्यके लोके विप्रो भवति वेदवित्॥ 14-103-24(95875)
विश्रामयति यो विप्रं श्रान्तमध्वनि कर्शितम्।
कविनश्यति तदा पापं तस्य वर्षकृतं नृप॥ 14-103-25(95876)
अथ प्रक्षालयेत्पादौ तस्य तोयेन भक्तिमान्।
दशवर्षकृतं पापं व्यपोहति न संशयः॥ 14-103-26(95877)
घृतेन वाऽथ तैलेन पादौ तस्य तु पूजयेत्।
तद्द्वादसमारूढं पापमाशु व्यपोहति॥ 14-103-27(95878)
धेनुकाञ्चनदत्तस्य यत्पुण्यं समुदाहृतम्।
तत्पुण्यफलमाप्नोति यस्त्वेनं विप्रमर्चयेत्॥ 14-103-28(95879)
स्वागतेन तु यो विप्रं पूजयेदासनेन च।
प्रत्युत्थानेन वा राजन्स देवानां प्रियो भवेत्॥ 14-103-29(95880)
स्वागतेनाग्नयो राजन्नासनेन शतक्रतुः।
प्रत्युत्थानेन पितरः प्रीति यान्त्यतिथिप्रियाः॥ 14-103-30(95881)
अग्निशक्रपितॄणां च तेषां प्रीत्या नराधिप।
संवत्सरकृतं पापं तस्य सद्यो विनश्यति॥ 14-103-31(95882)
यः प्रयच्छति विप्राय आसनं माल्यभूषितम्।
स याति मणिचित्रेण रथेनेन्द्रनिकेतनम्॥ 14-103-32(95883)
पुरन्दरासने तत्र दिव्यनारीविभूषितः।
षष्टिं वर्षसहस्राणि क्रीडत्यप्सरसां गणैः॥ 14-103-33(95884)
वाहनं यः प्रयच्छेत ब्राह्मणाय युधिष्ठिर।
स याति रत्नचित्रेण वाहनेन सुरालयम्॥ 14-103-34(95885)
स तत्र कामं क्रीडित्वा सेव्यमानोप्सरोगणैः।
इह राजा भवेद्राजन्नात्र कार्या विचारणा॥ 14-103-35(95886)
पादपं पल्लवाकीर्णं पुष्पतिं फलितं तथा।
गन्धमाल्यैरथाभ्यर्च्य वस्त्राभरणभूषितम्॥ 14-103-36(95887)
यः प्रयच्छति विप्राय श्रोत्रियाय सदक्षिणम्।
भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु॥ 14-103-37(95888)
जांबूनदविचित्रेण विमानेन विराजता।
पुरन्दरपुरं याति जयशब्दरवैर्युतः॥ 14-103-38(95889)
ततः शक्रपुरे रम्ये तस्य कल्पकपादपः।
ददाति चेप्सितं सर्वं मनसा यद्यदिच्छति॥ 14-103-39(95890)
यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च।
तावद्वर्षसहस्राणि शक्रलोके महीयते॥ 14-103-40(95891)
शक्रलोकावतीर्णश्च मानुष्यं लोकमागतः।
रथाश्वगजसंपूर्णं पुरं राज्यं च वक्ष्यति॥ 14-103-41(95892)
स्थापयित्वा तु मद्भक्त्या यो मत्प्रतिकृति नरः।
आलयं विधिवत्कृत्वा पूजाकर्म च कारयेत्।
स्वयं वा पूजयेद्भक्त्या तस्य पुण्यफलं शृणु॥ 14-103-42(95893)
अश्वमेधसहस्रस्य यत्पुण्यं समुदाहृतम्।
तत्फलं समवाप्नोति मत्सालोक्यं प्रपद्यते।
न जाने निर्गमं तस्य मम लोकाद्युधिष्ठिर॥ 14-103-43(95894)
देवालये विप्रगृहे गोवाटे चत्वरेऽपि वा।
प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु॥ 14-103-44(95895)
आरुद्य काञ्चनं यानं द्योतयन्सर्वतो दिशम्।
गच्छेदादित्यलोकं स सेव्यमानः सुरोत्तमैः॥छ 14-103-45(95896)
तत्र प्रकामं क्रीडित्वा वर्षकोटिं महातपाः।
इह लोके भवेद्विप्रो वेदवेदाङ्गपारगः॥ 14-103-46(95897)
देवालयेषु वा राजन्ब्राह्मणावसथेषु वा।
चत्वरे वा चतुष्के वा रात्रौ वा यदि वा दिवा॥ 14-103-47(95898)
नानागन्धर्ववाद्यानि धर्मश्रावणिकानि च।
यस्तु कारयते भक्त्या मद्गतेनान्तरात्मना॥ 14-103-48(95899)
तस्य देवा नरश्रेष्ठ पितरश्चापि हर्षिताः।
सुप्रीताः संप्रयच्चन्ति विमानं कामगं सुखम्॥ 14-103-49(95900)
स च तेन पिमानेन याति देवपुरं नरः।
तत्र दिव्याप्सरोभिस्तु सेव्यमानः प्रमोदते॥ 14-103-50(95901)
देवलोकावतीर्णस्तु सोस्मिँल्लोके नराधिप।
वेदवेदाङ्गतत्वज्ञो भोगवान्ब्राह्मणो भवेत्॥ 14-103-51(95902)
चत्वरे वा सभायां वा विस्तीर्णि वा सभाङ्गणे।
कृत्वाऽग्निकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर॥ 14-103-52(95903)
तत्राग्निं चतुरो मासाञ्ज्वालयेद्यस्तु भक्तिमाम्।
समाप्तेषु च मासेषु पौष्यादिषु ततो द्विजान्॥ 14-103-53(95904)
भोजयेत्पायसं मृष्टं मद्गतेनान्तरात्मना।
दक्षिणां च यथाशक्ति ब्राह्म्णेभ्यो निवेदयत्॥ 14-103-54(95905)
एवमग्निं तु यः कुर्यान्नित्यमेवार्चयेत्तु माम्।
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर॥ 14-103-55(95906)
तेनाहं शङ्करश्चैव पितरो ह्यग्नयस्तथा।
यास्यामः परमां प्रीतिं नात्र कार्याविचारणा॥ 14-103-56(95907)
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च।
सोस्मत्प्रीतिकरः श्रीमान्मम लोके महीयते॥ 14-103-57(95908)
मम लोकावतीर्णश्च अस्मिँल्लोके महायशाः।
वेदवेदाङ्गविद्विप्रो जायते राजपूजितः॥ 14-103-58(95909)
यः करोति नरश्रेष्ठ भरणं ब्राह्मणस्य तु।
श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः।
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर॥ 14-103-59(95910)
गवां कोटिप्रदानेन यत्पुण्यं समुदाहृतम्।
तत्सर्वफलमाप्नोति वर्षेणैकेन पाण्डव॥ 14-103-60(95911)
काञ्चनेन विचित्रेण विमानेनार्कशोभिना।
स याति मामकं लोकं दिव्यस्त्रीगणसेवितः॥ 14-103-61(95912)
गीयमानो वरस्त्रीभिर्वर्षाणां कोटिविंशतिम्।
क्रीडित्वा मामके तत्र सर्वदेवैरभिष्टुतः।
मानुष्यमवतीर्णस्तु वेदविद्ब्राह्मणो भवेत्॥ 14-103-62(95913)
करकां कर्णिकां वाऽपि महद्वा जलभाजनम्।
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु॥ 14-103-63(95914)
ब्रह्मकूर्चे तु यत्पीते फलं प्रोक्तं नरादिप।
तत्पुण्यफलमाप्नोति जलभाजनदो नरः।
सुतृप्तः सर्वसौगन्धः प्रहृष्टेन्द्रियमानसः॥ 14-103-64(95915)
हंससारसयुक्तेन विमानेन विराजता।
स याति वारुणं लोकं दिव्यगन्धर्वसेवितम्॥ 14-103-65(95916)
पानीयं यः प्रयच्छेद्वै जीवानां जीवनं परम्।
ग्रीष्मे च त्रिषु मासेषु तस्य पुण्यफलं शृणु॥ 14-103-66(95917)
कपिलाकोटिनानस्य यत्पुण्यं तु विधीयते।
तत्पुण्यफलमाप्नोति पानीयं यः प्रयच्छति॥ 14-103-67(95918)
पूर्णचन्द्रप्रकासेन विमानेन विराजता।
स गच्छेच्चन्द्रभवनं सेव्यमानोप्सरोगणैः॥ 14-103-68(95919)
त्रिंशत्कोटियुगं तत्र दिव्यगन्धर्वसेवितः।
क्रीडित्वा मानुषे लोके चतुर्वेदी द्विजो भवेत्॥ 14-103-69(95920)
शिरोभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः।
सुभगो रूपवाञ्शूरः पण्डितश्च भवेद्द्विजः॥ 14-103-70(95921)
वस्त्रदायी तु तेजस्वी सर्वत्र प्रियदर्शनः।
सुभगो भवति श्रीमान्स्त्रीणां नित्यं मनोरमः॥ 14-103-71(95922)
उपानहौ च च्छत्रं च यो ददाति नरोत्तमः।
स याति रथमुख्येन काञ्चनेन विराजता।
शक्रलोकं महातेजाः सेव्यमानोप्सरोगणैः॥ 14-103-72(95923)
काष्ठपादुकदा यान्ति विमानैर्वृक्षनिर्मितैः।
धर्मराजपुरं रम्यं सेव्यमानाः सुरोत्तमैः॥ 14-103-73(95924)
दन्तकाष्ठप्रादनेन प्रियवाक्यो भवेन्नरः।
सुगन्धवदनः श्रीमान्मेदासौभाग्यसंयुतः॥ 14-103-74(95925)
क्षीरं दधि घृतं वाऽपि गुडं मधुरसं तथा।
ये प्रयच्छन्ति विप्रेभ्यः परां भक्तिमुपागताः॥ 14-103-75(95926)
ते वृषैरश्वयानैश्च श्वेतस्रग्दामभूषिताः।
उपगीयमाना गन्धर्वैर्यान्तीश्वरपुरं नराः॥ 14-103-76(95927)
तत्र दिव्याप्सरोभिस्तु सेव्यमाना यथासुखम्।
षष्टिवर्षसहस्राणि मोदन्ते देवसन्निभाः॥ 14-103-77(95928)
ततः कालावतीर्णाश्च जायन्ते त्विह मानवाः॥
प्रभूतधनधान्याश्च भोगवन्तो नरोत्तमाः॥ 14-103-78(95929)
वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन।
वैवस्वतं समुद्दिश्य परां भक्तिमुपागताः॥ 14-103-79(95930)
अभ्यर्च्य विधिवद्विप्रांस्तिलान्गुडसमन्वितान्।
ये प्रयच्छन्ति विप्रेभ्यस्तेषां पुण्यफलं शृणु॥ 14-103-80(95931)
गोप्रदानेन यत्पुण्यं विधिवत्पाण्डुनन्दन।
तत्पुण्यं समनुप्राप्तो यमलोके महीयते।
ततश्चापि च्युतः कालादिह राजा भविष्यति॥ 14-103-81(95932)
तस्मिन्नेव दिने विप्रान्भोजयित्वा सुदक्षिणम्।
तोयपूर्णानि दिव्यानि भाजनानि दिशन्ति ये॥ 14-103-82(95933)
ते यान्त्यादित्यवर्णाभैर्विमानैर्वरुणालयम्।
तत्र दिव्याङ्गनाभिस्तु रमन्ते कामकामिनः॥ 14-103-83(95934)
ततोऽवतीर्णाः कालेन ते चास्मिन्मानुषे पुनः।
भोगवन्तो द्विजश्रेष्ठ भविष्यन्ति न संशयः॥ 14-103-84(95935)
अनन्तराशी यश्चापि वर्तते व्रतवत्सदा।
सत्यवाक्क्रोधरहितः शुचिः स्नानरतः सदा।
स विमानेन दिव्येन याति शक्रपुरं नरः॥ 14-103-85(95936)
तत्र दिव्याप्सरोभिस्तु वर्षकोटिं महातपाः।
क्रीडित्वा मानुषे लोके जायते वेदविद्द्विजः॥ 14-103-86(95937)
एकभुक्तेन यश्चापि वर्षमेकं तु वर्तते।
ब्रह्मचारी जितक्रोधः सत्यशौचसमन्वितः।
स विमानेन दिव्येन याति शक्रपुरं नरः॥ 14-103-87(95938)
दशकोटिसहस्राणि क्रीडित्वाऽप्सरसां गणैः।
इह मानुष्यके लोके वेदविद्ब्राह्मणो भवेत्॥ 14-103-88(95939)
चतुर्थकाले यो भुङ्क्ते ब्रह्मचारी जितेन्द्रियः।
वर्तते चैकवर्षं तु तस्य पुण्यफलं शृणु॥ 14-103-89(95940)
चित्रबर्हिणयुक्तेन विचित्रध्वजशोभिना।
याति यानेन दिव्येन स महेन्द्रपुरं नरः॥ 14-103-90(95941)
अकृशाभिर्वरस्त्रीभिः सेव्यमानो यथासुखम्।
ततो द्वादशकोटिं स समाः सम्यक्प्रमोदते॥ 14-103-91(95942)
शक्रलोकावतीर्णस्तु लोके चास्मिन्नराधिप।
भवेद्वै ब्राह्मणो विद्वान्क्षमावान्वेदपारगः॥ 14-103-92(95943)
षष्ठकाले तु योऽश्नाति वर्षमेकमकल्मषः।
ब्रह्मचर्यव्रतैर्युक्तः शुचि क्रोधविवर्जितः।
तपोयुक्तस्य तस्याथ शृणुष्व फलमुत्तमम्॥ 14-103-93(95944)
अत्यादित्यप्रकाशेन विमानेनार्कसंनिभः।
स याति मम लोकान्वै दिव्यनारीनिषेवितः॥ 14-103-94(95945)
तत्र साध्यैर्मरुद्भिस्तु पूज्यमानो यथासुखम्।
पश्यन्नेव सदा मां तु क्रीडत्यप्सरसां गणैः॥ 14-103-95(95946)
पक्षोपवासं यश्चापि कुरुते मद्गतात्मना।
समाप्ते तु व्रते तस्मिंस्तर्पयेच्छ्रोत्रियान्द्विजान्॥ 14-103-96(95947)
सोपि गच्छति दिव्येन विमानेन महातपाः।
द्योतयनप्रभया व्योम मम लोकं प्रपद्यते।
स तत्र मोदते कामं कामरूपी यथासुखम्॥ 14-103-97(95948)
त्रिंशत्कोटिसमा राजन्क्रीडित्वा तत्र देववत्।
इह मानुष्यके लोके पूजनीयो द्विजो भवेत्।
त्रयाणामपि वेदानां साङ्गानां पारगे भवेत्॥ 14-103-98(95949)
यश्च मासोपवासं वै कुरुते मद्गतात्मना।
जितेन्द्रियो जितक्रोधोजितधीः स्नानतत्परः॥ 14-103-99(95950)
समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान्।
दक्षिणां च ततो दद्यात्प्रहृष्टेनान्तरात्मना॥ 14-103-100(95951)
स गच्छति महातेजा ब्रह्मलोकमनु****म्।
सिंहयुक्तेन यानेन दिव्यस्त्रीगणसेवितः॥ 14-103-101(95952)
स तत्र ब्रह्मणो लोके दिव्यर्षिगणसेवितः।
शतकोटिसमा राजन्यथाकामं प्रमोदते॥ 14-103-102(95953)
ततः कालावतीर्णश्च सोस्मिँल्लोके द्विजो भवेत्।
षडङ्गविच्चतुर्वेदी त्रिंशज्जन्मान्यरोगवान्॥ 14-103-103(95954)
यस्त्यक्त्वा सर्वकर्माणि शुचिः क्रोधविवर्जितः।
महाप्रस्तानमेकाग्नो याति मद्गतमानसः॥ 14-103-104(95955)
स गच्छेदिन्द्रसदनं विमानेन महातपाः।
महामणिविचित्रेण सौवर्णन विराजता॥ 14-103-105(95956)
शतकोटिसमास्तत्र सुराधिपतिपूजितः।
नाकपृष्ठे निवसति दिव्यस्त्रीगणसेवितः॥ 14-103-106(95957)
शक्रलोकावतीर्णश्च मानुषेषूपजायते।
राज्ञां राजा महातेजाः सर्वलोकार्चितः प्रभुः॥ 14-103-107(95958)
प्रायोपवेशं यश्चापि कुरुते मद्गतात्मना।
नमो ब्रह्मण्यदेवायेत्युक्त्वा मन्त्रं समाहितः।
अन्तःस्वस्थो जितक्रोधस्तस्य पुण्यफलं शृणु॥ 14-103-108(95959)
कामगः कामरूपी च बालसूर्यसमप्रभः।
स विमानेन दिव्येन याति लोकाननामयान्॥ 14-103-109(95960)
स्वर्गत्स्वर्गं महातेजा गत्वा चैव यथासुखम्।
मम लोकेषु रमते यावदाभूतसंप्लवम्॥ 14-103-110(95961)
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना।
सोपि यानेन दिव्येन मम लोकं प्रपद्यते॥ 14-103-111(95962)
तत्र सर्वगुणोपेतः पश्यन्नेव स मां सदा।
त्रिंशत्कोटिसमा राजन्मोदते मम संनिधौ।
ततोऽवतीर्णः कालेन वेदविद्ब्राह्मणो भवेत्॥ 14-103-112(95963)
कर्षणं साधयन्यस्तु मां प्रपन्नः शुचिव्रतः।
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रमुदाहरन्॥ 14-103-113(95964)
बालसूर्यप्रकाशेन विमानेन विराजता।
मम लोकं समासाद्य वर्षकोटिं प्रमोदते।
मम लोकावतीर्णश्च सोस्मिँल्लोके नृपो भवेत्॥ 14-103-114(95965)
निवेशयति मन्मूर्त्यामात्मानं मद्गतः शुचिः।
रुद्रदक्षिणमूर्त्यां वा चतुर्दश्यां विशेषतः॥ 14-103-115(95966)
सिद्धैर्ब्रह्मर्षिभिश्चैव देवलोकैश्च पूजितः।
गन्धर्वैर्भूतसङ्घैश्च गीयमानो महातपाः॥ 14-103-116(95967)
प्रविशेत्स महातेजा मां वा शङ्करमेव वा।
न स्यात्पुनर्भवो राजन्नात्र कार्या विचारणा॥ 14-103-117(95968)
गोकृते स्त्रीकृते चैव गुरुविप्रकृतेऽपि वा।
हन्यन्ते ये तु राजेन्द्र शक्रलोकं व्रजन्ति ते॥ 14-103-118(95969)
तत्र जांबूनदमये विमाने कामगामिनि।
मन्वन्तरं प्रमोदन्ते दिव्यनारीनिषेविताः॥ 14-103-119(95970)
आश्रुतस्याप्रादनेन दत्तस्य हरणेन च।
जन्मप्रभृति यद्दत्तं तत्सर्वं तु विनश्यति॥ 14-103-120(95971)
नाऽगोप्रदास्तत्र पयः पिबन्ति
नाभूमिदा भूमिमथाश्नुवन्ति।
यान्यान्कामान्ब्राह्मणेभ्यो ददाति
तांस्तान्कामान्स्वर्गलोके च भुङ्क्ते॥ 14-103-121(95972)
यद्यदिष्टतमं द्रव्यं न्यायनोपार्जितं च यत्।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता॥ 14-103-122(95973)
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च।
अदत्त्वा काञ्चनं गां दरिद्रो नाम जायते॥ 14-103-123(95974)
दानं यत्तत्फलं नैव श्रोत्रियाय न दीयते।
श्रोत्रिया यत्र नाश्नन्ति न देवास्तत्र भुञ्जते॥ 14-103-124(95975)
श्रोत्रियेभ्यः परं नास्ति परमं दैवतं महत्।
निधानं चापि राजेन्द्र नास्माच्छ्रोत्रियभोजनम्॥ ॥ 14-103-125(95976)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि त्र्यधिकशततमोऽध्यायः॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-103-64 अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः। पञ्चगव्यं पिबेत्प्रातर्ब्रह्मकूर्चविधिः स्मृतः॥ 7-103-66 ग्रीष्मे चतुर्षु मासेषु इति थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|